(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

महाभारत का अरयण्क पर्व – Mahabharat Aranyak Parv in Hindi


॥ श्रीः ॥
3.5. अध्यायः 005
Mahabharata - Vana Parva - Chapter Topics
विदुरस्य काम्यकवने पाण्डवसमागमः ॥ 1 ॥ तेन तेषु तत्रस्वागमनकारणनिवेदनम् ॥ 2 ॥
Mahabharata - Vana Parva - Chapter Text

वैशम्पायन उवाच। 3-5-0x(1776)(15874)
पाण्डवास्तु वने वासमुद्दिश्य भरतर्पभाः।
प्रययुर्जाह्नवीकूलात्कुरुक्षेत्रं सहानुगाः ॥ 3-5-1(15875)
सरस्वतीदृपद्वत्यौ यमुनां च निषेव्य ते।
ययुर्वननैव वनं सततं पश्चिमां दिशम् ॥ 3-5-2(15876)
ततः सरस्वतीकूले समेषु मरुधन्वसु।
काम्यकं नाम ददृशुर्वनं मुनिजनप्रियम् ॥ 3-5-3(15877)
तत्र ते न्यवसन्वीरा वने बहुमृगद्विजे।
अन्वास्यमाना मुनिभिः सान्त्व्यमानाश्च भारत ॥ 3-5-4(15878)
विदुरस्त्वथ पाण्डूनां सदा दर्शनलालसः।
जगामैकरथेनैव काम्यकं वनमृद्धिमत् ॥ 3-5-5(15879)
ततो गत्वा विदुरः काम्यकं त-
च्छीघ्रैरश्वैर्वाहितः स्यन्दनेन।
ददर्शासीनं धर्मात्मानं विविक्ते
सार्धं द्रौपद्या भ्रातृभिर्ब्राह्मणैश्च ॥ 3-5-6(15880)
ततोऽपश्यद्विदुरं तूर्णमारा-
दभ्यायान्तं सत्यसन्धः स राजा।
अथाब्रवीद्धातरं भीमसेनं
किंनु क्षत्ता वक्ष्यतिनः समेत्य ॥ 3-5-7(15881)
कच्चिन्नायं वचनात्सौबलस्य
समाह्वातुं देवनायोपयाति।
कच्चित्क्षुद्रः कुशली चाऽयुधानि
जेष्यत्यस्माकं पुनरेवाक्षवत्याम् ॥ 3-5-8(15882)
समाहूतः केनचिदाहवाय
नाहं शक्तो भीमसेनापयातुम्।
गाण्डीवे च संशयिते कथं नु
राज्यप्राप्तिः संशयिता भवेन्नः ॥ 3-5-9(15883)
वैशम्पायन उवाच। 3-5-10x(1777)
तत उत्थाय विदुरं पाण्डवेयाः
प्रत्यगृह्णन्नृपते सर्व एव।
तैः सत्कृतः स च तानाजमीढो
यथोचितं पाण्डुपुत्रान्समेयात् ॥ 3-5-10(15884)
समाश्वस्तं विदुरं ते नरर्षभा-
स्ततोऽपृच्छन्नागमनाय हेतुम्।
स चापि तेभ्यो विस्तरतः शशंस
यथावृत्तं धृतराष्ट्रेऽम्बिकेये ॥ 3-5-11(15885)
विदुर उवाच। 3-5-12x(1778)
अवोचन्मां धृतराष्ट्रोऽभिगुप्त-
मजातशत्रो परिगृह्याभिपूज्य।
एवं गते समतामभ्युपेत्य
पथ्यं तेषां मम चैव ब्रवीहि ॥ 3-5-12(15886)
मयाप्युक्तं यत्क्षमं कौरवाणां
हितं पथ्यं धृतराष्ट्रस्य चैव।
तद्वै पथ्यं तन्मनो नाभ्युपैति
ततश्चाहं क्षममन्यन्न मन्ये ॥ 3-5-13(15887)
परं श्रेयः पाण्डवेया मयोक्तं
न मे तच्च शुतवानाम्बिकेयः।
यथाऽऽतुरस्येव हि पथ्यमौपधं
न रोचनते स्मास्य तदुच्यमानम् ॥ 3-5-14(15888)
न श्रेयसे यततेऽजातशत्रो
स्त्री श्रोत्रियस्येव गृहे प्रदुष्टा।
ध्रुवं न रोचेद्भरतर्षभस्य
पतिः कुमार्या इव षष्टिवर्षः ॥ 3-5-15(15889)
ध्रुवं विनाशो नृप कौरवाणां
न वै श्रेयो धृतराष्ट्रः परैति।
यथा च पर्णे पुष्करस्यावसिक्तं
जलं न तिष्ठेत्पथ्यमुक्तं तथाऽस्मिन् ॥ 3-5-16(15890)
ततः क्रुद्धो धृतराष्ट्रोऽब्रवीन्मां
यस्मिञ्श्रद्धा तव तत्र प्रयाहि।
नाहं भूयः कामये त्वां सहायं
महीमिमां पालयितुं पुरं वा ॥ 3-5-17(15891)
सोहं त्यक्तो धृतराष्ट्रेण राज्ञा
प्रशासितुं त्वामुपयातो नरेन्द्र।
तद्वै सर्वं यन्मयोक्तं सभायां
तद्धार्यतां यत्प्रवक्ष्यामि भूयः ॥ 3-5-18(15892)
क्लेशैस्तीर्व्रर्युज्यमानः सपत्नैः
क्षमां कुर्वन्कालमुपासते यः।
संवर्धयन्स्तोकमिवाग्रिमात्मवान्
स वै भुङ्क्ते पृथिवीमेक एव ॥ 3-5-19(15893)
यस्याविभक्तं वसु राजन्सहायै-
स्तस्य दुःखस्यांशभाजः सहायाः।
सहायानामेष संग्रगणेऽभ्युपायः
सहायाप्तौ पृथिवीप्राप्तिमाहुः ॥ 3-5-20(15894)
सत्यं श्रेष्टं पाण्डवा निष्प्रलापं
तुल्यं चान्नं सह भोज्यं सहायैः।
आत्मा चैषामग्रतो नातिवर्ते
देवं वृत्तिर्वर्धते भूमिपाल ॥ 3-5-21(15895)
युधिष्ठिर उवाच। 3-5-22x(1779)
एवं करिष्यामि यथा ब्रवीपि
परां बुद्धिमुपगम्याप्रमत्तः।
यच्चाप्यन्यद्देशकालोपपन्नं
तद्वै वाच्यं तत्करिष्यामि कृत्स्नम् ॥ 3-5-22(15896)

इति श्रीमन्महाभारते अरण्यपर्वणि किर्मीरवधपर्वणि पञ्चमोऽध्यायः ॥ 5 ॥

Mahabharata - Vana Parva - Chapter Footnotes
3-5-3 मरुधन्वसु मरुषु निर्जलदेशेषु। धन्वसु जाङ्गलदेशेषु ॥ 3-5-9 अपयातुं निवर्तितुम्। संशयिते पणीकृतेसति। कथं नः राज्यप्राप्तिर्यतः संशयिता। गाण्डीवनाशादित्यर्थः ॥ 3-5-12 अभिगुप्तं अभिरक्षितारम्। हितोपदेशेनेति शेषः। कर्तरिक्तः। ब्रहीहीत्यवोचदिति संबन्धः ॥ 3-5-13 अन्यत् साम्नोऽन्यत् वैरम् ॥ 3-5-16 परैति परामृशति। पुष्करस् कमलस्य ॥ 3-5-17 श्रद्धा इष्टोयमिति धीः ॥ 3-5-18 धार्यतां न विस्मर्तव्यम् ॥ 3-5-20 उपासते उपास्ते प्रतीक्षते। तृणैः स्तोकं अग्निमिव आत्मानं सहायसंपत्त्या संवर्धयन्। सहायार्जनोपायमाह यस्येति। अविभक्तं साधारणम्। वसु वित्तम् ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.